Sanskrit Learners Club

Where we Learn from Each Other

Competition with Sun

Source - Sanskrit Chandamama |

| September |

| 1984

This is a Mystical story about the Buddha which are known as Jaataka Kathaa where in it is mentioned about the hundreds of Life taken by Lord Buddha. In this series of stories you will find various Dharmic morale and his teachings to the public. You will find it more interesting to know about the teachings of Buddha and adopting such valuable teachings will surely bring change in your life.

सूर्येण सह स्पर्धा

पूर्वकाले ब्रह्मदत्तः काशीराज्यं परिपालयति स्म। तेषु दिनेषु चित्रकूटपर्वते नवतिसहस्रहंसाः निवसन्ति स्म। तदा बोधिसत्वः हंसरूपेण जन्म प्राप्तवान्। तस्य अनेके उत्तमगुणाः आसन्। अत्यधिकवेगेन उड्डयनं कर्तुम् अपि सः समर्थः आसीत्। अतः सः हंसेषु प्रमुखः अभवत्। जनाः सर्वगुणसम्पन्नम् अतिशयशक्तिशालिनं च एतं हंसं राजहंसः इति कथयन्ति स्म।

एकदा राजहंसः विहारार्थं स्वपरिवारेण सह सुदूरे स्थितम् एकं सरोवरं गतवान्। विहारानन्तरं सः निवासस्थानं प्रत्यागच्छन् आसीत्। मार्गे काशीराज्यं मिलितम्। पक्षिणां विशालः समूहः यदा उड्डयनं करोति स्म तदा समग्रस्य काशीराज्यस्य उपरि सुवर्णमयः वितानः निर्मितः इव दृश्यते स्म। काशीराजः आश्चर्येण हंसानां मध्ये विराजमानां राजहंसं दृष्ट्वा व्यामुग्धः। हंसस्य गाम्भीर्येण सौन्दर्येण च राजा आकृष्टः आसीत्।

राजलक्षणैः राजगाम्भीर्येण अपरिमिततेजसा च विराजमानं हंसं दृष्ट्वा राजा प्रभावितः। सः पुष्पमालिकाः पूजाद्रव्याणि च आनेतुं सेवकान् आज्ञापितवान्। सेवकैः आनीतानि तानि प्रदर्श्य राजहंसं संज्ञया आमन्त्रितवान्। राजहंसेन महाराजस्य एतत् आदरपूर्वकम् आह्वानं सन्तोषेण अङ्गीकृतम्। स्वपरिवारेण सह राजभवनस्य उपरि अवतरणं कृतं च। महाराजः महता वैभवेन अतिथिसत्कारं कृतवान्। राजभवने कानिचन दिनानि स्थित्वा राजहंसः स्वनिवासं प्रति उड्डयनम् अकरोत्।

तद्दिनात् आरभ्य राजहंसस्य विषये महाराजस्य ममता अधिका जाता। महाराजस्य मनः सर्वदा राजहंसम् एव ध्यायति स्म। यदा कदाऽपि राजहंसः पुनः मम राज्यम् आगच्छेत्। तदा अहं तस्य पुनर्दर्शनं प्राप्नुयाम् इति चिन्तयन् राजा हंसं प्रतीक्षमाणः एव दिनानि यापितवान्।

एकदा चित्रकूटपर्वते बालहंसौ राजहंससमीपम् आगत्य उक्तवन्तौ राजन्! वेगविषये सूर्येण सह स्पर्धा करणीया इति आवयोः इच्छा। एतदर्थं गन्तुं कृपया अनुमतिम् अनुगृह्णातु इति। एतत् श्रुत्वा मन्दहासपूर्वकं राजहंसेन उक्तम् रे! किम् इदं मूर्खत्वम्! उग्रकिरणशाली तीव्रगामी सूर्यः कुत्र? इदानीम् अपि अल्पवयस्कौ बालकौ भवन्तौ कुत्र? सूर्येण सः स्पर्धा नाम न सुलभम्। अविचार्य यदि स्पर्धार्थं गम्यते तर्हि भवतोः प्राणापायः एव स्यात्। अतः साहसं मास्तु अविवेकजन्यम् एतं विचारं त्यक्त्वा कुत्रापि आनन्देन क्रीडयताम् इति।

एतत् हितवचनं श्रुत्वा तौ बालहंसौ तत्क्षाणे तु तूष्णीं स्थितवन्तौ। किन्तु अल्पे एव काले पुनरपि आगत्य एतदर्थम् अनुमतिं पृष्टवन्तौ। अस्मिन् समये अपि राजहंसेन हितवचनानि उक्त्वा तौ प्रेषितौ। तृतीयवारम् अपि यदा तौ अनुमतिं पृष्टवन्तौ तदा राजहंसेन पुनः निराकरणं कृतं। राजहंसस्य अनुमतेः प्रार्थने प्रयोजनं नास्ति इति तौ बालहंसौ निश्चितवन्तौ। अतः एकस्मिन् दिने तौ राजहंसम् अनुक्त्वा एव चित्रकूटतः निर्गत्य युगन्धरपर्वतम् प्राप्तवन्तौ। युगन्धरपर्वतस्य शिखराणि सूर्यमण्डलं स्पृशन्ति इव! एतत् शिखरम् आरुह्य सुलभतया सूयेण सह स्पर्धितुं शक्यते इति तयोः मुग्धबालहंसयोः विचारः।

तद्दिने यथापूर्वं राजहंसेन स्वपरिवारस्य गणना कृत। तेन हंसद्वयं न्यूनम् अस्ति इति ज्ञातम्। किं प्रवृत्तं स्यात् इति राजहंसेन तत्क्षणे एव ज्ञातम्। तस्य मनसि व्यथा समुत्पन्ना। इतःपरं चिन्तया प्रयोजनं नास्ति। यथाकथञ्चित् तौ बालौ रक्षणीयौ इति राजहंसेन निश्चितम्। शीघ्रम् एव राजहंसेन युगन्धरपर्वतस्य शिखरं प्राप्तम्। तत्र वृक्षासमूहस्य मध्ये निलीय स्थितं च। सूयोदयानन्तरं तौ बालहंसौ सूर्येण सह स्पर्धार्थम् उड्डयनं कृतवन्तौ। राजहंसः अपि तयोः अनुसरणम् अकरोत्।

बालहंसयोः अन्यतरः कनीयान् हंसः मध्याह्नपर्यन्तम् उड्डयनम् अकरोत्। सूर्यतापेन तस्य पक्षौ दग्धौ। उड्डयनं कर्तुम् असमर्थः सः हंसः अधः अपतत्। पतनसमये तेन राजहंसः दृष्टः। तदा सः दैन्येन राजन्! अहं पराजितः। पतन्तं मां कृपया रक्षतु इति प्रार्थनाम् अकरोत्। तदा राजहंसः भीतिः मास्तु अहम् अस्मि किल इति सान्त्वयन् तं बालहंसं स्वपक्षयोः उपरि आरोपयत्। सक्षेमं चित्रकूटम् आनीय परिवारसदस्यानां मध्ये अत्यजत्। राजहंसः पुनरपि वेगेन उड्डीय युगन्धरपर्वतशिखरं प्राप्नोत्। तदा द्वितीयः हंसः अपि अपायपरिस्थितौ आसीत्। सूर्यकिरणानां तापेन पीडितः उड्डयितुम् असमर्थाः सन् दीनतापूर्वकं राजहंसं रक्षितुं प्रार्थयत। राजहंसः तम् अपि सान्त्वयन् स्वपक्षयोः उपरि आरोप्य चित्रकूटं प्रापयत्।

मम परिवारस्य सदस्यौ बालहंसौ सूर्येण पराजितौ। परिवारीयस्य पराजयः नाम मम अपि पराजयः एव। एतत् अहं कथं सोढुं शक्नोमि? अहम् अपि सूर्येण सह स्पर्धा करोमि। मम शक्तिः तु अपरिमिता। अतः अहं जयं प्राप्नोमि एव इति चिन्तयित्वा राजहंसः स्पर्धार्थं सिद्धः। त्वरितगत्या उड्डयनं कुर्वता राजहंसेन अल्पे एव काले सूर्यमण्डलम् अतिवर्त्य गतम्। एतेन सूर्यस्य शक्तिः कियती इति राजहंसेन ज्ञातम्। एतादृशस्पर्धया लाभः न आसीत्। तथापि एतेन हंसाः असमर्थाः इति अपवादः दूरीकृतः अभवत्। राजहंसः सूर्यमण्डलस्य उपरि एव किञ्चित्कालं विहारं कृत्वा अनन्तरं भूलोकम् आगत्य काशीराज्यं प्राप्नोत्।

दीर्घकालतः काशीराजः राजहंसस्य प्रतीक्षायाम् आसीत् किल? अकस्मात् राजहंसं दृष्ट्वा सः अतीव आनन्दितः। सः राजहंसं स्वर्णसिंहासने उपवेशितवान्। स्वयं स्थालिकायां पायसं तथा स्वर्णकलशे शीतलं पानकं च दत्वा सत्कारं कृतवान्। महाराजस्य आतिथ्येन राजहंसस्य श्रान्तिः अपगता। तदा राजा हंसम् आयासकारणां पृष्टवान्। राजहंसः बालहंसयोः साहसकथां उक्त्वा स्पर्धायां आत्मना प्राप्तं जयम् अपि निवेद्य अवदत् राजन्! भवतः सत्कारेण अहं बहु उपकृतः। भवदीयं सत्कारं जन्मनि कदापि न विस्मरामि इति।

तदा राजा अनुरोधं कृतवान् पक्षिराज! भवतः अलौकिकशक्तिं द्रष्टुम् बहुकालतः मम इच्छा अस्ति। सूर्येण सः स्पर्धा कुर्वतः भवतः शक्तिः अद्भुता एव। अतः कृपया तां शक्तिं प्रदर्शयतु इति। राजहंसेन एतत् अङ्गीकृतम् उक्तंच – एवं चेत् विद्युद्वेगेन बाणप्रयोगं कर्तुं समर्थान् चतुरः पुरुषान् आह्वयतु इति। एतदनुसारं चत्वारः धनुर्धारिणः आहूताः। महाराजस्य उद्याने एकः चतुरस्रः स्तम्भः आसीत्। स्तम्भस्य चतुर्दिक्षु एकैकं धनुर्धारिणं स्थातुम् उक्त्वा स्वयं कण्ठे एकां घण्टां दृत्वा राजहंसेन स्तम्भस्य उपरि उपविष्टम्।

अनन्तरं धनुर्धारिणः उद्दिश्य राजहंसेन उक्तम् अहं यदा संज्ञां करोमि तदा युगपद् एव बाणप्रयोगं कुर्वन्तु। अहम् उड्डीय गत्वा भवतां चतुर्णाम् अपि बाणान् आनीय ददामि। तच्च कार्यं तावता वेगेन प्रचलति यत् मम गमनागमनं घण्टाशब्देन केवलम् ऊहितुं शक्यम्। मां द्रष्टुं तु कोऽपि न शक्नोति इति। धनुर्धारिभिः चतुर्दिक्षु बाणप्रायोगः कृतः। राजहंसेन विद्युद्वेगेन गत्वा निमेषमात्रे बाणाः प्रत्यानीताः। धनुर्धारिणां पुरतः स्थापिताः च। महाराजः तत्परिवारसदस्याः च एतत् दृष्ट्वा आश्चर्यचकिताः।

तदा राजहंसेन उक्तम् परीक्षितः किल मम वेगः? एषः च अतीव कनिष्ठः वेगः। एतस्य आधारेण मदीयः वास्तविकः वेगः कीदृशः स्यात् इति भवान् एव चिन्तयतु। तदा राजा आश्चर्येण पृष्टवान् पक्षिराज! भवतः वेगः मया प्रत्यक्षं दृष्टः। इतोऽपि अतिशयः वेगः कस्यापि स्यात् वा? राजाहंसेन उक्तम् किमर्थम् न? मम अपेक्षया अनन्तगुणितः वेगः लोके एकस्य अस्ति। सः एव कालनामकः सर्पः। एषः कालसर्पः प्रतिक्षणम् अपि विश्वस्य जीविनः अवर्णनीयवेगेन नाशयन् अस्ति। एतानि वचनानि श्रुत्वा महाराजस्य कम्पनम् आरब्धम्।

तदा राजहंसरूपेण स्थितः बोधिसत्वः राजानं सान्त्वयन् एवं तत्वोपदेशं कृतवान् राजन्! कालसर्पः कश्चन अस्ति इति यः सर्वदा स्मरति तस्य भीतिः नास्ति एव। यावत् भवान् नीत्या धर्मेण च राज्यपरिपालनं करोति तावत्पर्यन्तं भवतः भीतिः मास्तु। भवान् विधिपूर्वकं कर्तव्यं पालयतु। एतेन कालसर्पः भवन्तं स्पृशति चेदपि स च स्पर्शः सुखाय एव भविष्यति इति। बोधिसत्वस्य उपदेशानुसारं काशीराजः राज्यं परिपालयन् अपारं यशः प्राप्तवान्।

Identify different words like noun, pronoun, case-endings, adjectives, adverbs, indeclinable, verbs, tenses and mood as I discussed in different lectures in my Beginners, Competency and Fluency courses. Also, identify the sentence constructions for active voice, passive voice, causal verb forms to improve your Sanskrit language knowledge. All these stories are not debatable for the contents. With open mind, from every story we can learn Social and Dharmic values useful for our life, is my personal opinion. The Chandama Sanskrit stories are retyped for readability and searchability with education purpose only and in no way to infringe the copyrights. Please bring to my notice if you found any typing errors.