Sanskrit Learners Club

Where we Learn from Each Other

Avoid Too Much Everywhere

Source - Sanskrit Chandamama |

| July |

| 1984

Aditya and Vimala are married and living in a village. Aditya is of the habit of talking too much. Vimala did not like her husband’s talkative nature and advised him to avoid it. But, the habit did not die down. Dejected by her husband’s talkative nature Vimala started talking less and gradually she was keeping silence in most of the situations. One day she went to her friend’s marriage and a sequence of incidences caused trouble both to her and his husband because of the nature of keeping too much silence and too much talkativeness. How they both realized it is the story.

अति सर्वत्र वर्जयेत्

एकः ग्रामः। तत्र आदित्यः इति एकः युवकः। तस्य पत्नी विमला। आदित्यः अतिवक्ता। सः सर्वदा अधिकसम्भाषणं करोति। आदित्यस्य एतं स्वभावं विमला न इच्छति। यदा सः उक्तम् एव विषयं पुनःपुनः वदति तदा तस्याः जुगुप्सा भवति। अतः सा पतिम् उक्तवती कृपया एवं सम्भाषणं न करोतु। यावत् अपेक्षितं तावदेव सम्भाषणं करोतु इति। परन्तु तेन प्रयोजनं न जातम्। आदित्यः पूर्ववत् एव सम्भाषणम् करोति। इदानीं विमला कुपिता। सा पतिं तर्जितवती। परन्तु तेन अपि प्रयोजनं न अभवत्। एतेन प्रसङ्गेन खिन्ना विमला पत्या सह सम्भाषणम् एव न करोमि इति निश्चयं कृतवती। अनन्तरं न केवलं पत्या सह परन्तु अन्यैः सह अपि सम्भाषणं न करोति स्म। केवलं आम् न इति पदद्वयम् एव वदति स्म।

एकदा विमलायाः सख्याः विवाहः निश्चितः। विमला तदर्थं नगरं गन्तुम् इच्छति। एतं विषयं ज्ञात्वा आदित्यः उक्तवान् सख्याः विवाहः किल! तर्हि भवत्या अवश्यं गन्तव्यम्। बान्धवानाम् अपेक्षया स्नेहिताः एव श्रेष्ठाः यथः बान्धवानां मध्ये तु परस्परं कलहः भवति। ते सर्वे स्वार्थपरायणाः भवन्ति। परन्तु स्नेहिताः कष्टकाले अपि अस्माभिः सह एव तिष्ठन्ति। अतः स्नेहिताः कदा अपि न विस्मर्तव्याः। स्नेहितानां सखीनां च गृहस्य विशेषकार्यक्रमेषु अस्माभिः गन्तव्यम् एव। भवती अवश्यं गच्छतु इति।

गच्छतु इति एकं पदं वक्तुम् एतावत् भाषणं करणीयं वा? कुपिता विमला एवम् उक्त्वा सखीभिः सह विवाहार्थं प्रस्थितवती। विवाहसमारम्भे विमला अधिकसम्भाषणं न कृतवती। स्वसखीं वधूं दृष्ट्वा किञ्चित् सम्भाषणं कृतवती। अनन्तरम् एकत्र मौनम् उपविष्टवती।

विमलायाः काश्चित् परिचिताः तया सह सम्भाषणं कर्तुम् आरब्धवत्यः। किन्तु विमला ताभिः सह अपि सम्भाषणं न कृतवती। ताः सर्वाः चिन्तितवत्यः विमला इदानीं गर्विता सञ्जाता अस्ति इति। भोजनं समाप्तम्। सखीम् उक्त्वा विमला प्रस्थितवती। ग्रामे एकः चतुष्पथः आसीत्। तत्र शकटाः भाटकार्थं मिलन्ति स्म। विमला तत्र आगतवती। तदा एव एकः शकटः तत्र आगतः। शकटे विमलायाः ग्रामीणा सुन्दराम्बा तस्याः पतिः च आसीत्। विमला तां दृष्टवती। तथापि उपेक्षया इव मुखं परिवर्त्य स्थितवती।

एषा मम अवमाननं कृतवती इति चिन्तयित्वा सुन्दराम्बा किमपि अनुक्त्वा ततः गतवती। अनन्तरं विमला बहुकालपर्यन्तं तत्र शकटार्थं प्रतीक्षां कृतवती। किन्तु एकोऽपि शकटः न आगतः। अन्ते सायंकालसमये एकः शकटः आगतः। किन्तु सः शाकटिकः ग्रामं प्रापयितुं द्विगुणितं भाटकं पृष्टवान्। अस्तु इति विमला अङ्गीकृतवती। सा शकटम् आरूढवती। शकटः प्रस्थितः।

सामान्यतः अर्धमार्गः क्रान्तः आसीत्। तदा सूर्यः अस्तङ्गतः। सर्वत्र अन्धकारः व्याप्तः। शकटः अग्रे गतः। इदानीं मार्गे अन्यः कोऽपि न सञ्चरति स्म। किञ्चित् अग्रे गत्वा झटिति शकटः स्थगितः। किमर्थं भोः शकटं स्थगितवान्? किम् अभवत् इति विमला शाकटिकं पृष्टावती। शाकटिकः स्वहस्तेन एकां छुरिकां प्रदर्श्य तां भापयन् कठोरस्वरेण उक्तवान् – किमपि न। भवत्याः समीपे विद्यमानं धनम् आभरणं च निष्कास्य ददातु। नो चेत्… इति।

विमला भयेन मूका अभवत्। कम्पमाना सा शकटतः अवतीर्णवती। स्वहस्ते विद्यमानानि शतं रूप्यकाणि तस्य कृते दत्तवती। तावदेव न कण्ठहारम् अपि निष्कासयतु। शीघ्रं शीघ्रं.. इति पुनः भापितवान् शाकटिकः। विमलायाः नेत्रयोः अश्रूणि आगतानि। सा कण्ठहारं निष्कासयितुम् प्रयत्नं कृतवती। तदा तस्मिन् एव मार्गे नगरतः वेगेन आगच्छन् एकः शकटः दृष्टः। झटिति शाकटिकः विमलायाः कण्ठे हस्तं संस्थाप्य कण्ठहारं बलेन आकृष्टवान्। तेन सः कण्ठहारः छिन्नः भूत्वा भूमौ पतितः।

तदा सर्वत्र अन्धकारः आसीत्। अधः पतितः कण्ठहारः कुत्र अस्ति इति शाकटिकः न ज्ञातवान्। तम् अन्वेष्टुं भीतः सः तद्विषये आशां त्यक्त्वा शकटे उपविश्य नगरं प्रति प्रस्थितवान्। विमला कण्ठहारम् अन्विष्टवती। तं अञ्चले बध्वा पादाभ्याम् स्वग्रामं प्राप्तवती।

सा आदित्यं सर्वं विषयम् उक्तवती। तत् श्रुत्वा सः कीदृशम् अकार्यं कृतवती? भवती सुन्दराम्बया सह किमर्थं सम्भाषणं न कृतवती? तया सह आगन्तव्यम् आसीत्! तथा चेत् सुरक्षितं गृहं प्राप्तुं शक्यम् आसीत्। अत्र मया एव दोषः कृतः। भवतीम् एकाकिनीं प्रेषितवान् किल! सः प्रथमः दोषः। भवत्याः हस्ते अहं शतं रूप्यकाणि दत्तवान्। सः द्वितीयः दोषः। सुवर्णस्य कण्ठहारं भवत्याः कृते दत्तवान् किल सः तृतीयः दोषः। भवती नगरं गच्छति तत्र किमपि क्रेतव्यं भवेत्। तदर्थं धनम् आवश्यकं भवेत् इति कृत्वा अहं शतं रूपयकाणि दत्तवान्। नो चेत्… एवं किमपि किमपि वदन् आसीत्।

तदा तेषां गृहस्य कर्मकरी रङ्गाम्बा तत्र आगतवती। तां दृष्ट्वा विमला पतिम् उक्तवती – पर्याप्तं भोः भवतः भाषणम्! दोषाणां पट्टिकाम् अनन्तरं करोतु। प्रथमम् इदानीं छिन्नं कण्ठहारं समीकार्य आनयतु इति। आदित्यः तस्मिन् ग्रामे विद्यमाने एकस्मिन् आभरणापणे उद्योगी। अद्य अपि सः उद्योगार्थं प्रस्थितवान्। अद्य तु धनं नष्टम् इति सः विमनस्कः आसीत्। अतः गमनसमये कण्ठहारं नेतुं विस्मृत्य एव गतवान्।

आदित्यः आपणं प्राप्तवान्। तदा आपणम् एकः खल्वाटः ग्राहकः आगतवान्। आदित्यः तस्य कृते बहूनि आभरणानि प्रदर्शितवान्। किन्तु ग्राहकः पुनः पुनः वदति अन्यत् प्रदर्शयतु इति। विविधकण्ठहारान् प्रदर्श्य आदित्यः पश्यतु एते हाराः कियत्सुन्दराः सन्ति। शुद्धसुवर्णेन निर्मिताः एते हाराः इति वर्णयितुम् आरब्धवान्। खल्वाटः उक्तवान् – किं भोः एतावत् वर्णनं करोति? मम नेत्रं नास्ति वा? एते सर्वे हाराः स्थूलाः अरमणीयाः च सन्ति। अहम् एतादृशहारान् न इच्छामि। सूक्ष्महाराः सन्ति चेत् प्रदर्शयतु इति।

आदित्यः उक्तवान् – परन्तु महोदय! वस्तुतः येषाम् व्यवहारज्ञानं न्यूनं भवति ते एतादृशसूक्षमहारान् स्वीकुर्वन्ति। बुद्धिमन्तः तु एतादृशस्थूलहारान् एव स्वीकुर्वन्ति। किमर्थम् एवं वदामि इति चेत् अद्य एवम् एकः प्रसङ्गः अभवत् इति आरभ्य सर्वम् उक्तवा अनन्तरं सः हारः सूक्ष्मः आसीत् किल अतः छिन्नः। अहं तु तत् विस्मृत्य एव आगतवान्। इदानीं गृहं गन्तुं मम समयः नास्ति। नो चेत् अहं प्रदर्शयितुं शक्नोमि स्म इति उक्तवान्।

भवतः भाषणं श्रोतुं ममाऽपि समयः नास्ति। भवतः आपणे सूक्ष्मः हारः नास्ति किल! अस्तु अन्यत्र अन्विष्यामि एवम् उक्त्वा खल्वाटः ततः गतवान्।

आपणे स्वकार्यं समाप्य सायम् आदित्यः गृहम् आगतवान्। विमला तं पृष्टवती हारः समीकारितः वा? गृहतः हारं नेतुम् एव अहं विस्मृतवान् भोः। श्वः नयामि। स्मारयतु इति आदित्यः उक्तवान्। विमला सम्भ्रमेण उक्तवती किम्भोः! हारः न प्राप्तः वा? सः मनुष्यः हारं न प्रापितवान् वा? कः सः? कस्य हस्ते हारं दत्तवती इति आदित्यः पृष्टवान्।

वास्तविकः विषयः एषः। मध्याह्ने एकः खल्वाटः आदित्यस्य गृहम् आगत्य विमलां उक्तवान् – भवत्याः पतिः छिन्नं हारं आनेतुं मां प्रेषितवान्। कृपया ददातु इति। तस्य वचनेन विमलायाः मनसि विश्वासः उत्पन्नः। सा हारम् तस्य हस्ते दत्तवती।

एतत् श्रुत्वा आदित्यः उक्तवान् अहो! कश्चन ग्राहकः आपणम् आगतवान् आसीत्। तस्य समीपे हारस्य वृत्तान्तम् उक्तवान् आसम्। सः वराकः चोरः इति कथम् अहं जानामि? भवान् सर्वैः सह किमर्थं गृहव्यवहारविषये वार्तालापं करोति? अतः एव एवं नष्टम् अभवत्। भवतः अति वक्तृत्वमेव अत्र कारनम् इति तम् आक्षिप्तवती विमला। भवत्याः अपराधः नास्ति वा? भवती मूका इव स्थितवती इति कृत्वा एवम् अभवत् इति आदित्यः ताम् आक्षिप्तवान्।

तदा कर्मकरी रङ्गाम्बा आगत्य उक्तवती अत्र द्वयोः अपि दोषः अस्ति। आरम्भे भवती अतिमौनं स्थितवती। अतः शतं रूप्यकाणि नष्टानि। भवतः सम्भाषणम् अधिकम् अभवत्। एवं कृत्वा हारः एव विनष्टाः। सर्वदा सम्भाषणे जागरूकता आवश्यकी। सर्वदा सन्दर्भानुगुणं सम्भाषणं करणीयम् इति। अनन्तरम् एतौ उभौ अपि स्वस्वभावं परिवर्तितवन्तौ।

Identify different words like noun, pronoun, case-endings, adjectives, adverbs, indeclinable, verbs, tenses and mood as I discussed in different lectures in my Beginners, Competency and Fluency courses. Also, identify the sentence constructions for active voice, passive voice, causal verb forms to improve your Sanskrit language knowledge. All these stories are not debatable for the contents. With open mind, from every story we can learn Social and Dharmic values useful for our life, is my personal opinion. The Chandama Sanskrit stories are retyped for readability and searchability with education purpose only and in no way to infringe the copyrights. Please bring to my notice if you found any typing errors.